________________
श्रीआचा
राङ्गवृत्तिः
(शीलाङ्का.)
● ६१० ॥
******
अन्तो माहणेण मईमया । बहुसो अपडिण्णेण भगवया एवं रोयन्ति ॥ १६ ॥ तिमि ॥ इति द्वितीय उद्देशकः ।। ९-२॥
यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया 'प्रवेपन्ते' दन्तवीणादिसमन्विताः कम्पन्ते यदेवा 'प्रवेदयन्ति' शीतजनितं दुःखस्पर्शमनुभवन्ति, आध्यानवशगा भवन्तीत्यर्थः तस्मिंश्च शिशिरे हिमकणिनि मास्ते च प्रवाति सत्येके न सर्वे 'अनगारा.' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदवनोदाय पात्रकं प्रज्वालयन्ति--अङ्गारशकटिका मन्वेपयन्ति प्रावारादिकं याचन्ते यदिवाऽनगारा इति प्राश्वनाथतीर्थप्रव्रजिता गच्छ्वासिन एव शीतार्दिता निवातमेषन्ति - घङ्खशाला दिवाव सतीर्वातायनादिरहिताः प्रार्थयन्ति ॥ किं च-इह सङ्घाटीशब्देन शीतः पनोदक्षमं कल्पद्वयं त्रयं वा गृह्यते ताः सङ्गाटीः शीतार्दिता वयं प्रवेच्यामः एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रवजितास्त्वेधाः समिधः काष्टानीतियाद् एताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः तथा संघाटया वा पिहिताःस्थगिताः कम्बलाद्यावृतशरीग इति किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-- अतिदुःसहमेतद्यदुत हिमसंस्पर्शाःशीतस्पर्शवेदना दुःखेन सान्त इतियावत् ॥ तदेवमेवंभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरधनगारेषु यद्भगवान् व्यधात्तद्दर्शयितुमाह- 'तस्मिन् एवंभूने शिशिरे हिमवाते शीतस्पर्शे च सर्वकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति-- अधिसहते, किंभूतोऽसौ ? - 'अप्रतिज्ञा' न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा काभ्यासयति ? 'अधो विकटे' अधः-- कुडयादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि
उप
उद्देशका २
॥ ६१० ॥