________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.
॥ ६०० ॥
पुढविच आउकायं च मेडकायं च वाकायं च । पणगाई षीयहरियाई तसकार्य च सव्वसो नचा ॥ १२ ॥ एयाइ सन्ति पडिलेहे, चिनमन्ताइ से अभिन्नाय । परिवज्जिय विहरित्या इय सङ्काय से महावीरे ॥ १३ ॥ अदु थावरा य तसत्ताए, तसा य थावरताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ १४ ॥ भगवं च एवमन्नेसिं सोवहिए हु लुप्पई पाले । कम्मं च सव्वसो नच्चा तं पडियाइक्स्खे पावगं भगवं ।। १५ ।। दुविहं समिच मेहावी किरियमक्खायऽणेलिसं नाणी । आयाणसोयमइवायसोयं जोगं च सव्वसो णवा ॥ १६ ॥
लोकद्वयस्याप्ययमर्थः एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्ज्य विहरति स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मवादग्भेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विचैव तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, कठिना तु पृथ्वीशर्करावालुकादि षटूत्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अष्कायोऽपि सूक्ष्मवादरमेद । द्विधा, तत्र सूक्ष्मः पूर्ववद्बादरस्तु शुद्धोदकादिभेदेन पञ्चवा, तेजः कायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पश्चधा, वायुरपि तथैव, नवरं बादर उत्कलिकादिभेदेन पश्चधा, वनस्पतिरपि सूक्ष्मवादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्व बीज सम्मूर्च्छन मेदात्सामान्यतः षोढा, पुनर्द्विधा प्रत्येकः साधारणश्च तत्र प्रत्येको वृक्षगुच्छादिभेदाद्वादशधा, साधाश्णस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्व्युदासेन वादगे भेदत्वेन
उप०.९ उद्दे शका १
॥ ६०० ॥