________________
.५६
॥
संयमानुष्ठाने पराक्रमते, ज्ञाता:-क्षत्रियांस्तेषां पुत्रः-अपत्ये ज्ञातपुत्रः-वीरवर्द्धमानस्वामी स भगवान्नैतदुःखस्मरणाय गच्छति-पराक्रमत इति सम्बन्धः, यदिवा शरणं-गृहं नात्र शरणमस्तीत्यशरण:-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि-किमत्र चित्रं यद्भगवानपरिमिनवलपराक्रमः प्रतिज्ञामन्दरमारूढः पगक्रमते इति ?, स भगवानप्रवजितोऽपि प्रासुकाहारानुपासीत , श्रयते च किल पश्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत , ततः प्रविजिपुः ज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाःक्षते क्षारावसे चनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रवजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच-कियन्तं कालं पुनरत्र मया स्थातव्यमिति !, ते ऊचु:संवत्सरद्वयेमास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविधाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथश्चिदयं तिष्ठत्वितिमत्त्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ ततो भगवास्तवचनमनुवात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा-अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तो, यथा च प्राणातिपातं परिहृतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व'मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता-स्थगिताऽर्चा-क्रोधज्वाला येन स तथा, यदिवा पिहिताच्चों-गुप्ततनुः स भगवान् छयस्थकालेऽभिज्ञातदर्शन:-सम्यक्त्वभावनया भावितः शान्तः इन्द्रियनोइन्द्रियैः ॥ स एवंभूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह
५६.