________________
॥ ५९७ ॥
णो अणुन्नइ पावगं भगवं ॥ ७ ॥ णी सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुवे तत्थ दण्डेहिं लूसियपुवे अप्पपुण्णेहिं ॥ ८ ॥
'अथ' आनन्तर्ये पुरुषप्रमाणा पौरुषी - आत्मप्रमाणा वीथी तां गच्छन् ध्यायतीर्याममितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः किभूतां तां ?- तिर्यग्मित्ति - शकटोद्धिवदादौ सङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति १ – 'चक्षुरासाग' चतुर्दश्वाऽन्तः - मध्ये दत्तावधानो भूत्वेति तं च तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति- 'अथ' आनन्तर्ये चतुःशब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः संहिता - मिलितास्ते बहवो डिम्मादयः पांसुमुष्टयादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुः पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमितो वा अयमित्येवं हलबोलं चक्रुरिति ॥ किं च शय्यत एष्विति शयनानि वसतयस्तेषु कुलविनिमित्ताद्वयतिमिंश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः सुममार्गाला इति ज्ञात्रा परिज्ञया प्रत्याख्यान परिज्ञया परिहरन् सागारिकं -मैथुनं न सेवेत, शून्येषु च भावमैथुनं न सेवेत, इत्येवं स भगवान् स्वयम् आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्म्मध्यानं शुक्लध्यानं वा ध्यायति ॥ तथा-ये केचन इमेऽगारं गृहं तत्र तिष्ठन्तीति अगारस्था:- गृहस्थास्तै मिंश्री भावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्त्तते ध्यानं वा, 'अंजु 'त्ति ऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तु पठन्ति - 'पुट्ठो व सो अट्ठो
॥ ५९७ ॥