SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मास ज न रिकासि पत्थग भगवं । अचेलए तओ चाइ तं वोसिज्ज वत्थमणगारे ॥ ४ ॥ आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-म श्रमणो भगवान् । वीरवर्द्धमानस्वाभ्युत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायकेन देवव्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिक प्रतिज्ञ आविभूतमनःपर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थ तीर्थप्रवर्तनाथ चोत्थाय 'संख्याय'ज्ञात्वा तस्मिन हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्या छायायां प्रव्रज्याग्रहणसमनन्तरमेव 'रीयते स्म' विजहार, तथा च किल कुण्डग्रामान्मुहूर्तशेष दिवसे कर्मारग्राममाप, तत्र च भगवानित आरभ्य नानाविधाभिग्रहोपेतो घोरान् परीषहोपसर्गानधिसहमानो महासत्त्वतया म्लेच्छानप्युपशमं नयन् द्वादश वर्षाणि साधिकानि छद्मस्थो मौनव्रती तपश्चचार, अत्र च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदृष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपककरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति ॥ एतदर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्ते तद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स' भगवान् प्रतिज्ञायाः परीपहाणां संसारस्य वा पारं गच्छतीति पारगः, कियन्तं कालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ विमर्तीति चेद्दर्शयति-खुरवधारणे स च भिन्नक्रमा, एतद्वस्त्रावज्ञावधारणं तस्य भगवतोऽनु-पश्चाद्धाम्मिकमनुधार्मिकB मेवेति, अपरैरपि तीर्थकृद्भिः समाचीमित्यर्थः, तथा चागमः- "से घेमि जे य अईया जे य पडुप्पन्ना जे य।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy