________________
.५६३॥
वरणज्ञानदर्शनसमन्वितः केवली भवति, स च सातावेदनीयमेवैक बध्नाति यावत्सयोग इति, स चान्तमु हूतं देशोना पूर्वकोटिं वा यावद्भवति, ततोऽसावन्तमुहूर्तावशेषमायुर्ज्ञात्वा वेदनीयं च प्रभूनतरमतस्तयोः स्थितिसाम्यापादनार्थ | समुद्घातमेतेन क्रमेण करोति, तद्यथा--औदारिककाययोगी आलोकान्तादुर्वाधःशरीरपरिणाहप्रमाणं प्रथमसमये दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेचौदारिककामणशरीरयोगी कपाटवकपाटं विधत्ते, तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्च तुर्थसमये कार्मण काययोगेनैव मन्थान्तरालव्यापनासह निष्कुरैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्त्या समुद्घातावस्थां चतुर्भिरेक समयैरुपसंहरंस्तथापारवांस्तत्तद्योगो भवति, केवलं षष्ठसमये मन्थानमुपसंहरबौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्ययं च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्व मनोयोग वादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवत्त्रिं चतुर्थ शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तमु हूतं यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरप्रकृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावद्विचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्मप्रकृतीः क्षपयति, ताश्चेमाः-देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्वन्धनसङ्घाताविति च, तथा तत्रैवापरा इमा:
३॥