________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ ५६२ ॥
णाद्धाक्षयेण वा स्यात् स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भत्रक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वाग्द्वयमुपशमं विदध्यादिति । साम्प्रतं क्षपकश्रेणिर्व्यावर्ण्यते - अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्त्तमान आरम्भको भवति, स च प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो त्रिसंयोजयति, ततः करणत्रयपूर्वेकमेव मिथ्यात्वं तच्छेषं च सम्यगमिध्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिथ्यात्वं नवरं तच्छेषं सम्यक्त्वे प्रक्षिपति, एवं सम्यक्त्वमपि तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिक सम्यग्दृष्टिरिति एताश्च सप्तापि कर्म्मप्रकृतीर संयत सम्यग्दृष्टद्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कचात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तु कपायाष्टकं क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्द करणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशनां हास्यादिचतुष्कस्य (च) यथाक्रमं बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानद्वित्रिकस्य नरकतिर्यग्गतितदानुपूर्व्ये केन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्म माधारणानां पोडशप्रकृतीनां क्षयः, ततः कपायाष्टकस्यापि अन्येषां तु मतं पूर्वं कषायाटकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्कं पुनः पुरंवेदं ततः स्त्रीवेदं ततः क्रमेण क्रोधादीन्सज्ज्वलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिवादरः सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्त्त तदन्ते द्विरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकं दर्शनावरणचतुष्कं च क्षपयित्वा निरा
उप०
उद्देशका १
॥ ५६२ ।।