SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीआचा उप.. उद्देशका राजवृत्तिः । (पीलाहा.) .५९० ॥ . अपवर्तयन् यावत्पन्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तदपि पन्योपमासङ्ख्येयभागं बध्यमानासु मोहप्रकृतिषु प्रतिममयं संक्रामयति, तत्रापि प्रथमममये स्तोक द्वितीयादिष्वसङ्ख्येयगुणं एवं यावच्चरमसमये सर्वसंक्रमेणावलिका. गतं मुक्त्वा सर्व संक्रामयति, आवलिकागतमपि स्तिबुकसंक्रमेण वेद्यमानास्वपरप्रकृतिषु संक्रामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानीं दर्शन त्रिकोपशमना मण्यते-तत्र मिथ्यात्वस्योपशमको मिथ्यादृष्टिवेदकसम्यग्दृष्टिा सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्य पशमं कुर्वस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाकेनानुभूयोपशान्तमिथ्यात्वः सन्नुपशमसम्यग्दृष्टिर्भवतीति । साम्प्रतं वेदकसम्यग्दृष्टिरुपरामश्रेणिं प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्त्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तमौहूत्तिकी करोति, इतरी त्वावलिकामात्रा, ततः किश्चिन्न्यूनमुहर्त्तमात्रा स्थिति खण्डयित्वा बध्यमानाना प्रकृतीनां स्थितिबन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थितौ प्रक्षिपन्नेत्येवमनया प्रक्रियया सम्यक्त्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिकसङ्क्रमेण सङ्क्रमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायाँ सत्यामुपशान्तदर्शनत्रिको भवतीति । तदनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानकं, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङक्रमापूर्वस्थितिबन्धा योगपद्यन पश्चाप्यधिकाराः प्रवर्तन्ते, तत्रापूर्वकरणमङ्ख्येयमागे गते निद्राप्रचल . .. ..
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy