________________
॥ ५८
मानः करणत्रयं विधनं, तच प्रत्येकमान्तमात्तिक, तद्यथा-यथाप्रवृत्तिकरणमपूर्वकरणमनिवृत्त करणं चेति, चतुथ्य पशान्ताद्धा, तत्र यथाप्रवृत्त करणे प्रतिसमयमनन्त गुणवृद्धया विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणागुणसंक्रमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति :-अपूर्वामपूर्वी क्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एक स्थितिघातरसघातगुणश्रेणिगुणसंक्रमा अन्यश्च स्थितिबन्ध इत्येते पश्चाप्यधिकारा योगपद्येन पूर्वमप्रवृत्ताः प्रवर्तन्त इत्यपूर्व करणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एतदुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पश्चाप्यधिकारा युगमा प्रवर्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्नक्रमेणानन्तानुवन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता द्रघणादिभिर्हता न बाय्वादिभिः प्रसप्पणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्धय दकाीकृता अनिवृत्तिकरण क्रियाहता सत्युदयोदीरणसंक्रमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिक स्तोक द्वितीयादिषु समयेष्वसङ्ख्येयगुणवृद्धयोपशम्यमानमन्तमुहूर्तेन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा-क्षायोपशमिकसम्यग्दृष्ट यश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यगदृष्टयस्तियश्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशो-:
J॥५८६। धिविवेकेन परिणता अनन्तानुवन्धिविसंयोजनार्थं प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिना, स्थितिमपवर्त्तय