________________
५८३
पेक्षी न सेवेत, सुद्धिदर्शनमोहितो ब्रह्मदत्तवनिदानं न कुर्यादित्यर्थः, तथा चागमः-'इहलोगासंसप्पओगे परलोगासंसप्पओगे २जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि 'वर्णः' संयमो मोक्षो वा स च सूक्ष्मो दुर्विज्ञेयत्वात् , पाठान्तरं वा-धुववन्नमित्यादि, ध्रुवः-अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वतीं यशःकीर्ति पर्यालोच्य कामेच्छालोमविक्षेपं कुर्यादिति ॥ २३ ॥ किंचशाश्वता-यावज्जीवमपरिक्षयात्प्रतिदिनदानाद्वाऽस्तैिस्तथाभूतैविभवः कश्चिन्त्रिमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थ धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा-यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानद्धिदानतो निमन्त्रयेत , तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात् ?, एवं द्रव्यादिनिरूपणया देवमाया बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेष 'नूमति कर्म मायां वा तत तां वा 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ॥ २४॥ किं च- . .
सव्वहिं अमुच्छिए, आउकालस्स पारए। तितिक्खं परमं नचा, विमोहन्नयर हियं
॥ २५ ॥ तिमि ॥ इति अष्टम उद्देशकः ॥ ८-८॥ इति अष्टममध्ययनम् ॥८॥ सर्वे च तेऽर्थाश्च सर्वार्थाः-पञ्चप्रकाराः कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमृञ्छितः-अनध्युपपन्नः