________________
श्रीआचाराङ्गवृत्तिः शीलाङ्का.)
० ५८२ ॥
न विद्यते चित्तमस्मिन्नित्यचित्तम् - अचेतनं जीवरहितमित्यर्थः तच्च स्थण्डिलं फलकादि वा 'समासोध' लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्प्रकम्पः कुतालोचनादिपरिकर्मा गुरुभिरनुज्ञातो व्युत्सृजेत्, 'सर्वशः' सर्वात्मना 'कार्य' देहं व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् - 'न मे देहे परोषहा: ' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुतः परीषहाः ?, यदिवा न मम देहे परीषहाः, सम्यकरणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात्, अतः परीषहान् कम्मैशत्रु जय सहायानितिकृत्वाऽपरीपहानेव मन्यते ॥ २१ ॥ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह'यावज्जीव' यावत्प्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदिवा न मे यावज्जीवं परीपहोपसर्गा इत्येतत्सङ्ख्याय - ज्ञात्वाऽधिसहेत, यदिवा यावज्जीवमिति यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमन्यमेवेत्यत एतत्सङ्ख्याय - ज्ञात्त्रा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोत्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्काय पीडाकायुपतिष्ठते तत्तत्सम्यगधिसहेत ॥ २२ ॥ एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत् तत्प्रतिविधानार्थमाह - भेदनशीला भिदुराः - शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न रागं यायात, पाठान्तरं वा 'कामेसु बहुलेसुवि' इच्छा मदनरूपेषु कामेषु बहुलेषु - अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गामियात्, तथा इच्छारूपो लोभ इच्छा लोभः - चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरा
,
बिमो० ८ उद्देशा
॥ ५८२ ॥