SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ | भ्रमेव-न स्थावान्तरं यायात् ॥ १६ ॥ किंच-'अय' मित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो मरणविधिः सर्वोत्तरत्वाद्वम्मों-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति-'पूर्वस्थानस्य प्रग्रह' || इति पञ्चम्यर्थे षष्ठी पूर्वस्थानाद्भक्तपरिक्षेङ्गितमरणरूपात्प्रकर्षेण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहिअत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते च्छिन्नमूलपादपवनिश्चेष्टो. निष्क्रियो दह्यमानश्छिद्यमानो वा | विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत , एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना प्रत्युपेच्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्त, तच्च स्थानात्स्थानान्तरासंक्रमणम् , एतदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासक्रमणं कुर्यादित्यर्थः, कोऽसौ १-'माहणे'त्ति साधुः, स हि निषण्णो निषण्ण ऊध्वस्थितो वा निष्प्रतिकम्मों यथानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् ॥ २०॥ एतदेव प्रकारान्तरेण दर्शयितुमाह अचित्तं तु समासन, ठावए तत्थ अप्पर्ग। वोसिरे सव्वसो कार्य, न मे देहे परीसहा ॥ २१ ॥ जावजीवं परीसहा, उवसग्गा इति सङ्घया। संवुडे देहभेयाए, इय पन्नेऽहियासए ॥ २२ ॥ भेउरेसु न रजिज्जा, कामेसु बहुतरेसुवि (बहुलेसुवि) । इच्छा लोभं न सेविजा, धुववन्नं सपेहिया ॥ २३ ॥ सासएहिं निमन्तिजा, दिव्वमायं न सहहे । तं पडिबुज्झ माहणे, सव्वं नूमं विहूणिया।॥ २४ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy