________________
विमो..
भीआचाराजवृत्तिः (चीलावा.)
उद्देशका -
सन् स्पृष्टः परीपहोपसर्ग: 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमभ्यासयेद्--अधिसहेत ॥ १३ ॥ किं चस घनाहारतया मुनिलायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यं वा आत्मन्याहारयेद्--व्यवस्थापयेत् नार्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथा-सङ्कोचननिविण्णो हस्तादिकं प्रसारयेत तेनापि निविण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टवादगद्य एव, किंभूत इति दर्शयति--अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान चलतीत्यचला सम्यगाहित-व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, मावाचलितश्चेङ्गितप्रदेशे चक्रमणादिकमपि कुर्यादिति ॥१४॥ एतद्दर्शयितुमाह-प्रज्ञापकापेक्षयाऽभिमुखं क्रमणममिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं--पश्चादभिमुखं क्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत् . तथा निष्पनो निषण्णो वा यथासमाधानं भुजादिक सङ्कोचयेत्प्रसारयेद्वा, किमर्थमेतदिति चेदर्शयति--कायस्य--शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, कायसाधारणाच्च तत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायु:स्थितिक्षयान्मरणं यथा स्यात् , न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथामावः स्यादिति भावः, ननु च निरंडसमस्तकायचेष्टम्य शुककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्मारोऽभिहित इति, नायं नियमः, सुविशुद्धाध्यमायतया यथाशक्त्यारोपितमारनिर्वाहिणः तत्तल्या कर्मक्षयः अत्राप्यसौ वा शब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एच, यदिवा 'अत्रापि इङ्गितमाणेऽचेतनवच्छुष्काकाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामध्ये तिष्ठेद ॥ १५॥ एतत्सामम वे चैतन्कुर्या
५७८॥