________________
॥ ५७७॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अनापीङ्गितमरणे यत्संलेखनातृण संस्तारादिकममिहितं तत्सर्व वाच्यम् ॥ ११॥ अयमपरो विधिरित्याह- 'अयं स' इति सोऽयम् 'अपरः' अन्यो भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्य 'धर्मो' विशेषो 'ज्ञातपुत्रेण' वीरवर्द्धमानस्वामिना सुष्टवाहित:--उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अनापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखना च पूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पश्चमहावतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः-आत्मवर्ज प्रतिचाग्म्-अङ्गव्यापार विशेषेण जह्यात- त्यजेत 'त्रिविधत्रिविधेने ति मनोवाकायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् , स्वयमेव चोद्वर्तनपरिवर्तनं कापिकायोगादिकं विधत्ते ॥ १२॥ सर्वथा प्राणिसंरक्षणं पौन:पुन्येन विधेयमिति दीयतमाह
हरिएसुन निवजिजा, थण्डिलं मुणिया सए। विओसिज्ज अणाहारो, पुट्ठो तत्थ- - ऽहियासए ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणो। तहावि से अगरिहे, अचले जे समाहिए ॥ १४ ॥ अभिक्कमे पडिकमे, सङ कुचए पसारए । कायसाहारणहाए, इत्थं वावि अचेयणो॥ १५॥ परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए । ठाणे ण
परिकिलन्ते, निसीइज्जा य अंतसो ॥ १६॥ । हरितानि-दुर्वाङकुरादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधि व्युत्सृज्य-त्यक्त्वाऽनाहारः
॥५७७॥