________________
.५७३॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत-आसेवेत पण्डितो-बुद्धिमानिति ॥ ६ ॥ संलेखनाशुद्धकायच मरणकाल समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्राम:-प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं-संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाबहिरित्येतदुपलक्षितम् , उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राण-प्राणिरहितम् , ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत 'मुनिः' यथोचितकालस्य वेत्तेति ॥ ७॥ संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यवासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्यारूपायारोपितपञ्चमहाव्रतः क्षान्तः-वामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया, मरणादविम्यत् संस्तारके त्वग्वर्त्तनं कुर्यात् , तत्र च स्पृष्टः परीषहोपसगैस्त्यक्तदेहतया सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः पीपहोपसर्ग: स्पृष्टो-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोलनं कुर्यात् , पुत्रकलत्रादिसम्बन्धामातध्यानवशगो भूयात् , प्रतिकूलैर्वा परीषहोपसर्गर्ने क्रोधनिघ्नः स्यादिति ॥ ८॥ एतदेव दर्शयितुमाह--
संसप्पगा य जे पाणा, जे य उड्डमहाचरा। भुञ्जन्ति मंससोणिय, न छणे न पम. ज्जए॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उन्भमे। आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए ॥१०॥ गन्धेहिं विवित्तेहिं, आउकालस्स पारए । पग्गहियतरगं चेयं, दवियस्स वियाणओ॥११॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए । आय