________________
॥ ३७३ ॥
संयममनुपान्य मम जीवतः कश्विद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै मरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्मणमारम्भः--शरीरधारणायान्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुटयति--अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअई' कर्माष्टमेदं तस्मात् त्रुटयिष्यतीति त्रुटयति 'वर्त्तमानसामीप्ये वर्त्तमानवद्वे' - (पा० ३-३-१३१ )त्यनेन भविष्यत्कालस्य वर्त्तमानता || २|| स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाह- कषः--संसारस्तस्यायाः कषायाः -- क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यकिश्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति-- 'अल्पाहारः' स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः अल्पाहारतया च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय इति दर्शयति-- तितिक्षते - असदृशजनादपि दुर्भाषितादि क्षमते, रोगातङ्कं वा सम्यक् सहत इति, तथा च संलेखनां कुर्व्वन्नाहारस्यान्पतया 'अथे' त्यानन्तर्ये 'भिक्षुः' मुमुक्षुः ‘ग्लायेत' आहारेण विना ग्लानतां व्रजेत्, चणेऽमूर्च्छन्नाहारस्यैवान्तिकं - पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रमं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-- समीपं न व्रजेत् तथाहि-- आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखना शेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति ॥ ३॥ किं च तंत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुजीवितं प्राणधारणलक्षणं नाभिकाङ्क्षत् नापि क्षुद्वेदनापरीषहमनधिसहमानों मग्णं प्रार्थयेद् ‘उभयतोऽपि जीविते मरणं वा न सङ्ग विदध्यात् जीविते मरणे तथा ॥ ४ ॥ किं भूतस्तर्हि स्यादित्याह
1
܀܀܀܀܀܀܀
❖❖❖❖❖❖
॥ ५७३ ॥