SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विमो. उद्देशक रहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भृतवदुपचारात्तीर्णवत्तीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथ' कथमपि श्रीआचागावृत्तिः या 'कथा' गगकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा, कथमहमिङ्गितमरणप्रतिज्ञा निर्वहिष्ये इत्येवंरूपा 8 या कथा सा छिन्ना येन स छिन्नककथा, दृष्कगनुष्ठान विधायी हि कथंकथी भवति, स तु पुनर्महापुरुषन या न व्या(शीलाबा.) कुलतामियादिति, तथा आ--समन्तादतीव इताज्ञाता परिच्छिन्ना जीवादयोऽर्था येन मोऽयमातीतार्थः अदत्तार्थो वा, । ५६६ ॥ यदिवाऽतीता:- सामस्त्येनातिक्रान्ताः अर्थाः--प्रयोजनानि यस्य स तथा, उपरतव्यापार इत्यर्थः, तथा आ-समन्तादतीव इतो--गतोऽनाद्यनन्ते संसारे आतीतः न आतीतः अनातीतः, अनादत्तो वा संसारी येन स नथा, संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा ' प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं--प्रतिक्षणविशरारु' 'कार्य' कर्मवशाद्गृहीतमौदारिकं शरीरं त्वक्त्वा तथा संविधूय परीषहोपसर्गान् प्रमथ्य 'विरूपरूपान्' नानाप्रकारान सोढवा 'अस्मिन् सर्वज्ञप्रणीत आगमे विस्रम्भणतया विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवमायेन भैरवं-- भयानकमनुष्ठानं क्लीदुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवान्--अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुम्तया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह- 'तत्रापि' रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्याये. त्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्याय:, कर्मक्षयस्योभयत्र समानत्वादिति, आह च–'सेवि तत्थ वियंतिकारए' इत्यादि पूर्ववद्गतार्थम्, इतिब्रवीमिशब्दावपि शुण्णार्थाविति विमोक्षाध्ययनस्य षष्ठोद्देशकः समानः ॥८-६॥ ॥५६६ ॥ ..........
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy