SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ अथ अष्टमाध्ययने सप्तमोद्देशकः ॥ उववः षष्ठोहे शकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके एकत्वभावनाभावितस्य धृतिसंहननाद्यपेतस्येङ्गितमरणमभिहितम् . इह तु सेवैकत्वभावना प्रतिमाभिनिष्पाद्यत इति कृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगनमपि विदध्यादित्येतच्चेत्यनेन. सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् जे भिक्खू अचेले परिसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए ॥ सू० २२३ ॥ यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो--दिग्वासाः 'पर्युषितः संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे 'तस्य' भिक्षोः 'एवमिति वच्यमाणोऽभिप्रायो भवति, तद्यथा-शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्यपेतस्य वैराग्यभावनामावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाउनुभवस्य न मे तणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किश्चित प्रतिभासते, तथा शीतोष्णदेशमशकस्पर्शमधिसोढुमिति, तथा एकतरान् अन्यतर्गश्चानुकूलप्रत्यनीकान विरूपरूपान् 'स्पर्शान्' दुःखविशेषानध्यासयितु-सोढुमिति, किं त्वहं ह्री-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनं, तच्चाहं त्यक्तु न शक्नोमि, एतच्च प्रकृतिलज्जालु(त्म)कतया साधन विकृतरूपतया वा स्यात् , एवमेभिः कारणः
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy