SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀ मृत्तिका मर्कट सन्तानको - लूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत् किं कृत्वा १- तत् स्थण्डिलं चक्षुषा ५६५ ॥ प्रत्युषेक्ष्य २, वीप्सया भृशभावमाह एवं रजोहरणादिना प्रमृज्य २, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चार प्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुख संस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्ध नमस्कारः आवत्तितपञ्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्वर' मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानं साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात् किं पुनर्यावत्कथिक भक्त प्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा - यद्यह पस्माद्रोगात् पञ्चपैरोभिमुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेव मित्वरम् - इङ्गितमरणं धृतिसंहननादिवलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तं च - ""पच्चक्खइ आहारं चउव्विहं नियमओ गुरुसमीचे । इंगियदे सेमि तहा चिपि हु नियमओ कुणड़ ॥ १ ॥ उव्वन्तइ परिअत्तइ काइगमाईऽवि अप्पणा कुणड़ । सम्वमिह अप्पणच्चिअ ण अन्नजोगेण धितिबलिओ ॥ २ ॥ " तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह'तद्'इङ्गितमरणं सद्भयो हितं सत्यं -- सुगतिगमनाविसंवाद नात्सर्वज्ञोपदेशाच्च सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितु ं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यथाऽऽरोपितप्रतिज्ञा भारनिर्वहणादित्यर्थः तथा 'ओजः' रागद्वेष १ प्रत्याख्याति महारं चतुविधं नियमाद् गुरुसमीपे । इङ्गिदेशे तथा चेष्टामपि नियमतः करोति ॥ १ ॥ उद्वते परिषतेते कायिकयाद्यपि आत्मना करोति । सत्रमिहात्मनैव नान्ययोगेन धृतिबलिकः ।। २ । ॥ ५६५ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy