________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ५५० ॥
प्रतिपन्नः अपगता शीतपीडा यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत् परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यज्जीर्णं तत्तत्परिष्ठापयेत् परिष्ठाप्य च निस्सङ्गो विहरेत् यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्भवेच्छतं ततः किं कर्त्तव्यमित्याह-- अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्ध वाते वासि सत्यात्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरो भवेत् सान्तरमुत्तरं - - प्रावरणीयं यस्य स तथा क्वचित्प्रावृणोति क्वचित्पार्श्ववर्त्ति विभर्त्ति शोताशङ्कया नाद्यापि परित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवाऽऽत्यन्ति शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकार जोहरणमात्रोपधिः ॥ किमर्थममावेकैकं वस्त्रं परित्यजेदित्याह -
,
लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ ॥ सू० २१३ ॥
लघवो लाघवं लाघवं विद्यते यस्यासौ लाघविक (स्त) मात्मानमागमयन्- आपादयन् वस्त्रपरित्यागं कुर्यात्, शरीरोपकरणकर्म्मणि वा लाघवमागमयन वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह - 'से' तस्य वस्त्रपरित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात् उक्तं च- "" पंचहि ठाणेहिं सम.
१ पञ्चभिः कारणैः श्रमणानां निर्मन्थानामचेत्तकत्वं प्रशस्तं भवति, तद्यथा-भल्पा प्रतिलेखना ? वैश्वसिकं रूपं २ तपोऽनुमतं ३ लाघवं प्रशस्तं ४ विपुल इन्द्रियनिग्रहः ५ ।
विमो० ८ उद्देशकः ४
।। ५५० ॥