________________
॥ ५४४
| च तद्याचनं दरोत्सादितमेव, यदि पुनः कन्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत-उत्करणापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र "उद्दिढ १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतस्रो वस्त्रैषणा भवन्ति, तत्र चाधस्तन्योयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याश्चावाप्तानि । च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद्.॥ एतदेव दर्शयितुमाह-नो धावेतप्रासुकोदकेनापि न प्रक्षालयेत् , गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति, तथा-न धौतरक्तानि वस्त्राणि धारयेत् , पूर्व धौतानि पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् व्रजेद्, एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मृन्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः अवधारणे, एतदेव वस्त्रधारिणः सामग्र्यं भवति-एषैव त्रिकन्पात्मिका द्वादशप्रकारोधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतदर्शयितुमाह
_ अह पुण एवं जाणिज्जा-उवाइक्कंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाइवत्थाई'
परिहविज्जा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले ॥ सू०२१२॥ यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकाले प्रत्युपेक्षयन् विमति, यदि पुनर्जीर्णदेश्यानि जीर्णानीति जानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खन्वयं हेमन्तो ग्रीष्मः
॥५४
॥