________________
॥५४७॥
शीतस्पर्शमहं न खलु शक्नोम्यधिसोढु', एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो बयान-सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे, महामुनिराह-मो गृहपते ! न खलु मे कल्पतेऽग्निकार्य मनाग उज्ज्वालयितुं प्रकर्षण ज्वालयितु प्रज्वालयितु स्वतो ज्वलितादौ 'कार्य' शरीरमीषन् तापयितुमातापयितुवा प्रकरेंण तापयितु प्रतापयितुवा, अन्येषां वा वचनात् ममैतत्कत्तंन कल्पते, यदिवाग्निसमारम्भायान्योवा वक्तुन कल्पते ममेति ।तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह-स्या-कदाचित्स-परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्ज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्वालनातापनादिकं भिक्षः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा-अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया?-अनासेवनया, यथैतत् ममायुक्तमासेवितु, भवता पुनः साधुभक्त्यनुकम्पाभ्यां पृण्यप्राग्भारोपार्जनमकारीति, प्रवीमीतिशब्दावुक्तार्थो । विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः॥८-३॥
॥ अथ अष्टमाध्ययने चतुर्थोद्देशकः ।।। उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनगृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोप। सर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत
an५४७॥ इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀