SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ५४४ ॥ ܀܀܀ " स्वदेहेऽप्यममत्वाः 'सव्वावंति 'ति सर्वस्मिन्नपि लोके चः समुच्चये स च भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत् किं च प्राणिनो दण्डयतीति दण्डः - परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिप्त्वा त्यक्त्वा 'पाप' पापोपादानं 'कम्मै' अष्टादशमेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः ' व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो रागद्वेपरहितः 'द्युतिमान् संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपात च्यवनं च ज्ञात्वा सर्वस्थानानित्यता हितमतिः पापकर्म्मवर्जी स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रियैग्लनतां नीयन्त इति दर्शयितुमाह आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विदिएहिं परिगिलायमाणेहिं ॥ सू० २०८ ॥ आहारेणोपचयो येषां ते आहारोपचयाः, के ते ? - दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा 'परीपहप्रभञ्जनः' परीषदॆः सद्भिर्भङ्गुरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीपहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीवाः सर्वैरिन्द्रियैग्लयमानैः क्लीवतामीयुः तथाहि - चुत्पीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति, स्यान्मतं- अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थं चाहारयतीति १, अत्रोच्यते, तस्यापि चतुःकर्म्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं विभू १ विमो० ८ | उद्देशकः २ ।। ५.४४ ।।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy