________________
॥८५-18
यावज्जीवम् 'अनुपालयेद' रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्यत्कणान्तमौहूर्तिकः, नातः परं सङ्क्लेशविशुद्ध्यद्धे भवतः, उक्तं च-"नान्तमुहूर्त्तकालमतिवृत्य शक्यं हि जगति सक्लेष्टुम् । नापि विशोडु शक्यं प्रत्यक्षो यात्मनः सोऽर्थः ॥ १॥" उपयोगद्यपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः ॥ २॥" अवस्थितिकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात, अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं तसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणाम भजते, तथा चोक्तम्-'जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसडाए ॥१॥" तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदिति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह-'विजहे'त्यादि, 'विहाय' परित्यज्य 'विस्रोतसिकां'शङ्का, सा च द्विधा-सर्वशङ्का देशशङ्का च, तत्र सर्वशङ्का किमस्ति आहतो मार्गो नवेति (मार्ग उत नेति), देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवाः १, विशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेका विहाय सम्पूर्णाननगारगुणान् पालयेत्, य दिवा विस्रोतांसि द्रव्यभावभेदात् १ यथा यथा श्रुतमवगाहते ऽतिश्यरसप्रसरसंयुतमपूर्वम् । तथा तथा प्रह्लादते मुनिर्नवनवसंवेगश्रद्धया ॥१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥८५॥