________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
अध्ययन ! उद्देशकः २
द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्ष प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धा वाऽनुपालयेदिति, पाठान्तरं वा विजहित्ता पुव्वसंजोग' पूर्वसंयोगः-मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चासंयोगोऽपि श्वशुरादिकृतो ग्रावस्तं 'विहाय' त्यक्त्वा 'श्रद्धामनुपालयेदिति मीलनीयं ॥ तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्य' स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्वैः कृतपूर्वमिति दर्शयितुमाह
पणया वीरा महावीहिं ॥ सू० २०॥ _ 'प्रणताः' प्रहाः 'वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथि:-पन्थाः महाश्चासौ वीथिश्च महावीथि:-सम्यग् दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहता, तं प्रति प्रहाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ॥ उपदेशान्तरमाह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽष्कायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह
लोगं च आणाए अभिसमेचा अकुओभयं ॥ सू० २१॥ अत्राधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् 'आज्ञया' मौनीन्द्र