________________
वचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धतोः--केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा 'अकुतोभयः' अप्कायलोको, यतोऽसौ न कुतश्विद्भयमिच्छति, मरणभीरुत्वात् , तमाज्ञयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः॥ अप्कायलोकमाज्ञया अभिसमेत्य यत्कर्त्तव्यं तदाह
से बेमि, णेव सयं लोगं अन्भाइक्खिजा, णेव अत्ताणं अन्भाइक्खिज्जा, जे लोयं अन्भाइक्खइ, से अत्ताणं अब्भाइक्खह, जे असाणं अम्भाइक्खद से लोयं अन्भाइक्खा ॥ सू०२२॥ सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वाच्या वा ब्रवीमि, न 'स्वयम्' आत्मना 'लोकः' अप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात्, स्यादारेका-नत्वेतदेवाभ्याख्यानं यदजीवानां जीवत्वापादनं, नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वं, यथा हि अस्य शरीरस्याहंप्रत्ययादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम्, अथापि स्याद्, आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियीति दर्शयति'नेव अत्ताणं अब्भाइक्खेजा' नैव 'आत्मानं' शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाभिन्नगुणं प्रत्यक्षं 'प्रत्याचक्षीत' अपह वीत, ननु चैतदेव कथमवसीयते-शरीराधिष्ठाताऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उत्तमपि भाण