________________
श्रीआचा
राङ्गवृत्तिः (शीलाङ्का.)
॥ ८८ ॥
यति, तथाहि - आहृतमिदं शरीरं केनचिदभिसन्धिमता, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहतत्वाद्, अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात् त्वदीयवचनपरिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापार भाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत् एवं कुतवर्क मार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्य:, अत एवंविधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाजं न प्रत्याचक्षीत, एवं च सति यो झज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुर काय लोकमभ्याख्याति प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्याख्याति यश्चात्मानमभ्याख्याति नास्म्यहं स सामर्थ्यादप्काय लोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्ग भ्याख्याते सत्यव्यक्त चेतनालिङ्गोऽकाय लोकस्तेन सुतरामभ्याख्यातः ॥ एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातत्र्य इत्यालोच्य साधवो नापकायविषयमारम्भं कुर्वन्तीति, शाक्यदयस्त्वन्यथोपस्थिता इति दर्शयितुमाह
लज्जमाणा पुढो पास अणगारा मोति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अणेगरूवे पाणे विहिंसइ १ । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघाय हेउ से सयमेव उदयसत्थं समारभति अण्णेहिं वा उदयसत्थं समारंभावेति अण्णे उदयसत्थं समारंभंते समणुजाणति, तं से अहि
अध्ययनं १
उद्देशकः २
॥ ८८ ॥