________________
॥
८%
याए, तं से अघोहीए २। से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खल मारे एस खल णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसह ३ । सेबेसि
संति पाणा उदयनिस्सिया जीवा अणेगा ४ ॥ सू० २३॥ 'लज्जमानाः स्वकीय प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमाना:-लज्जां कुर्वाणाः 'पथग'विभिनाः शाक्योलककणभक्कपिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य || मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुव्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानातान प्रथग्विभिमान पश्य, किं तैरसदाचरितं ? येनैवं प्रदय॑न्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदस्तो 'यदिदं' यदेतत, काक्वा दर्शयति-'विरूपरूप:' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नैरुदककर्म समारमन्ते. उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते, तच समारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति १, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतु यत् करोति तदर्शयति–स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रं समारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान् समनुजानीते, तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा
R४॥