________________
तदेवाबोधिलाभाय भवति २, स एतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय--अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषां साधनां यत् ज्ञातं भवति तद्दर्शयति--'एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह
अध्ययनं १ . श्रीआचाराङ्गवृत्तिः एष खलु मार एष खलु नरक इत्येवमर्थ गृद्धो लोको यदिदं विरूपरूपैः शम्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समार- उद्देशकः २ (शीलाङ्का ममाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वत् व्याख्येयं ३, पुनरप्याह-'से बेमी'त्यादि, सेशब्द आत्म
निर्देशे, सोऽहमेवमुपलब्धानेकाप्कायतत्ववृत्तान्तो ब्रवीमि--'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताः-पूतरकमत्स्यादयो RAL यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशस्त्रं समारममाणोऽन्यानप्यनेकरूपान् जन्तून् ।
विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह--'सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति--'जीवा अणेगा' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थ ततश्च दमुक्तं भवति-एकैकस्मिन् जीवभेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाज: पुरुषास्ते तनिश्रितप्रभूतजीवसत्त्वव्यापत्तिकारिणो द्रष्टव्याः ४॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति
इहं च खल भो ! अणगाराणं उदयजीवा वियाहिया ॥ सू० २४ ॥ खलुशन्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्ग गणिपिटके 'अनगाराणां' साधूनाम् 'उदकजीवा' उदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरकमत्स्यादयो जीवा व्याख्याताः, अवधारण फलं च। नान्येषामुदकरूपा जीवाः प्रतिपादिताः ॥ यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातमाजः साधव
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀