SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ८४ ॥ संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्व संरक्षण प्रवृत्तत्वाद्दयैकरूपः सर्वत्राकुटिलगतिरितियावत्, यदि वा मोक्षस्थानगमनजु श्रेणिप्रतिपत्तेः सर्वसंवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव स च सप्तदशप्रकार ऋजुः तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति - अशेष संयमानुष्ठायी सम्पूर्णोऽनगारः एवंविधश्चेदृग् भवतीति तद् दर्शयति – 'नियागपडिवन्ने' त्ति यजनं यागः नियतो निश्चितो वा यागो नियागो-मोक्षमार्गः सङ्गतार्थत्वा|द्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति तं नियागं- सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः कायः - औदारिकादिर्यस्माद्यस्मिन्वा सति स निकायोमोक्षस्तं प्रतिपन्नो निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात् स्वशक्त्याऽष्ठानं चामायाविनो भवतीति दर्शयति – 'अमायं कुव्वमाणे 'ति माया - सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्बाणः, अनिगूहितसंयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेषकषायापगमोऽपि द्रष्टव्य इति, उक्तं च—“सोही 'य उज्जयभूयस्स, धम्मो सुद्धस्स चिट्ठ" ति ॥ तदेवमसावुद्ध, तसकलमायावल्लीवितानः किं कुर्यादित्याह restraint मेव अणुपालिज्जा, वियहित्ता विसोत्तियं (विजहित्ता पुव्वसंजोयं) ॥ सू० १६ ॥ | 'यया श्रद्धया' प्रवर्द्धमान संयमस्थान(मानुष्ठान) कण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो १ शोधिश्वर्जुभूतस्य धर्मः शुद्धस्य तिष्ठति • अध्ययन १ उद्देशकः ३ ॥ ८४ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy