SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥ ८३ ॥ इति दर्शयितुमाह सेसाई दाइ' ताइ' जाइ' हवंति पुढवीए । एवं आउछेसे निज्जुत्ती किन्तिया एसा (होइ ) ।। ११५ ।। 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि तान्येवात्रापि द्रष्टव्यानि यानि २ पृथिव्यां भवन्तीति, 'एवम्' उक्तप्रकारेणाकायो देशके 'निर्युक्तिः' निश्चयेनार्थघटना 'कीर्त्तिता' प्रदर्शिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् से बेमिव जहा से अणगारे उज्जुकडे नियागपडिवण्णे (निकायपडिवन्ने) अमायं कुव्वमाणे वियाहिए | सू० १८ ॥ 'से बेमी' त्यादि अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि' रित्युक्तं न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति तथाऽऽदिसूत्रेणायं सम्बन्धः - सुधर्मस्वामी इदमाह श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । शब्दस्तच्छन्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग् भवति तदहं ब्रवीमि, अपि समुच्चये, स यथा चाऽनगारो न भवति तथा च ब्रवीमि 'अणगारा मो त्ति एगे पवयमाणे' त्यादिनेति, न विद्यते अगारं - गृहमेषामित्यनगारा, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादाने नैतदाचष्टे - - गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निखद्यानुष्ठायी च मुनिरिति दर्शयति-- 'उज्जुकडे 'ति ऋजु :- अकुटिल: ॥ ८३ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy