________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥८२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
'एभिः' स्नानावगाहनादिका कारणरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् 'हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह-'सातं' सुखं तदात्मनः 'अन्वेषयन्तः प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवस
Kaअध्ययनं १ स्थायिरम्ययौवनदध्मातचेतसः सन्तः सद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः 'परस्य' अबादेर्जन्तुगणस्य उद्देशकः २ 'दुःखम्' असातलक्षणं तद् 'उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च-"एक हि चक्षरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलन खलु कोऽपराधः ॥ १॥ इदानीं शस्त्रद्वारमुच्यते
उस्सिचणगालणधोवणे य उवगरणमत्तभंडे य । बायरआउक्काए एयं तु समासओ सत्थं ॥ ११३ ॥
शस्त्र द्रव्यभावभेदात् द्विधा-द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्-ऊर्दू सेच नमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रान्तेिन 'धावन' वस्त्राद्यपकरणचर्मकोशकटाहा(घटा)दिभण्डकविषयम्, एवमादिकं बादराप्काये 'एतत्' पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः । विभागतस्त्विदम्-.. किंची सकाय सत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४॥ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किश्चिच्चोभयं उदकमिश्रमृत्ति
an८२॥ कोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाकायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀