________________
अध्ययन
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
उद्देशकः२
॥८०॥
'विष्वक' पथगसंख्येयलोकाकाशप्रदेशगशिपरिमाणा इति, विशेपश्चायम्-चादरपथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असंख्येयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माकायापर्याप्तका विशेषाधिकाः सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्माकायपर्याप्तका विशेषाधिकाः ॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाहजह हथिस्स सरीरं कललावत्थस्स अहुणोववन्नस्स । होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ॥११०॥ ___ अथवा पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थ दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टम् , एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्ड कमुदकाण्डकमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचञ्च्चादिप्रविभागं चेतनावद् दृष्टम् , एषा एवोपमा अप्कायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तबह भवतीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थ, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्यु(केदकग्रहणमेवमर्थमत्र, प्रयोगश्चायम्-सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात् , हस्तिशरीरोपादानभूतकल लवत् , विशेषणोपादानात्प्रश्रवणादिव्युदासः, तथा सात्मकं तोयम् , अनुपहतद्रवत्वाद् , अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरीराणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् घेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारववादयः,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥८०।।