________________
॥ ७६ ॥
'शुद्धोदकं' तडागसमुद्र नदीहद । वटा दिगंतमवश्यायादिरहितमिति, 'अवश्यायो' रजन्यां यस्त्रेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पर्कज्जलमेव कठिनीभृतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुर मस्तकस्थितो जलबिन्दु मिस्नेह सम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराकायविधयो व्यावर्णिताः । ननु च प्रज्ञापनायां वादगष्कायभेदा बहवः परिपठिताः, तद्यथा - करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुण का लोदपुष्कर चीरघृते चुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः ?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्त'पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्त्तन्ते यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ?, उच्यते, स्त्रीबालमन्दबुद्धयादिप्रतिपत्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः १, उच्यते प्रज्ञापनाध्ययनमुपाङ्गत्वादार्थ, तत्र युक्तः सकलभेदोपन्यासः स्त्र्याद्यनुग्रहाय नियुक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः । त एते वादराकायाः समासतो द्वेधाः - पर्याप्तका अपर्याप्तकाश्च तत्रापर्यातका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्त्राशोभिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्त्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्च ते साच योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्त्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥ प्ररूपणानन्तरं परिमाणबारमाह
जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसु' लोगा असंखिज्जा ॥ १०६ ॥ ये बादरा काय पर्याप्तकास्ते संवचितलोकप्रतरासंख्येय भागवर्तिप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो
॥ ७६ ॥