SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ अथ प्रथमाध्ययने तृतीयोऽप्कायोद्देशकः ॥ अध्ययन गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पृथिवीकायजीवाः उद्देशक: ३ प्रतिपादितास्तबधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तदधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपे अप्कायोद्देशकः, तत्र पृथिवीकायजीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अप्कायेऽपि तान्येव समानतयाऽतिर्देष्टुकामः कानिचिद्विशेषाभिधित्सयोद्धतु कामश्च नियुक्तिकारो गाथामाह__आउस्सवि दाराइं ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणवभोगसत्थे य॥१०६॥ अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं भेदरूपं विधानपरिमाणोपभोगशस्त्रविषयं द्रष्टव्यं, चशब्दाल्लक्षणविषयं च, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ॥ तत्र विधानं-प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह- . दुविहा उ आउजीचा सुहमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥१०॥ ___स्पष्टा । तत्र पश्च वादरविधानानि दर्शयितुमाह Blu७८॥ सुद्धोदए य उस्सा हिमे य महिमा य हरतणू चेव । बायर आउविहाणा पंचविहा पण्णिया एए ॥१०॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy