SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥ ७५ ॥ तथा परिवन्दनमाननपूजनार्थ दुःखप्रतिघातहेतु च 'गृडो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भे अज्ञानवशान्मूर्छितस्त्वेतद्विधत्त इति दर्शयति-'यद्' यस्माद् 'इम' पृथ्वीकार्य विरूपरूपैः शस्त्रैः पृथ्वीकर्म(कार्य) समारंभमाणो हिनस्ति, पृथिवीकर्मसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् . 'प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ?, अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह-'से बेमी' त्यादि, सोऽहं पृष्टो भवता पृथिवी कायवेदनां ब्रवीमि, अथवा 'से' इति तच्छब्दार्थे वर्तते, यचया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिज्जात्यन्धो बधिरो मूकः कुष्ठी पगुः अनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण 'अब्भे' इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात् , स च भिद्यमानाद्यवस्थायां न पश्यति न शृणोति मृकत्वानोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् १, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धवधिरमूकपङ्गवादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां 'अप्पेगे पायमन्भ' इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जवाजानूरुकटीनाभ्युदरपार्श्वपृष्टउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गुलि B ॥७५।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy