________________
श्रीआचा- राङ्गवृत्तिः
अध्ययनं १ उद्देशकः २
॥ ७॥
नखग्रीवाहनुकोष्ठदन्तजिह्वातालुगलगण्डकर्णनासिकाक्षिभ्र ललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिलक्ष्यते, एवमेषामुत्कटमोहाज्ञानभार्जा स्त्यानर्याधुदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह-'अप्पेगे संपमारए अप्पेगे उद्दवए' यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षण प्राणानां मारणम्-अव्यक्तत्वापादनं कस्यचित कुर्यात, मुर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ ता वेदना स्फुटामनु भवति, अस्ति चाव्यक्ता तस्यासौ वेद(चेत)नेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह
एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति, तं परिणाय मेहावी नेव सयं पुढविसत्थं समारंभेजा, णेवण्णेहिं पुढविसत्थं समारंभावेजा, णेवण्णे पुढविसत्थं समारंभंते समणजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से
हुमुणी परिणातकम्मेत्ति बेमि ॥ सू०१७ ॥ इति प्रथमाध्ययने द्वितीय उद्देशकः ॥१२॥ 'अत्र' पृथिवीकाये 'शस्त्र' द्रव्यभावभिन्न, तत्र द्रव्यशस्त्रं स्वकायपरकायोमयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाकायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणस्येति 'एते' खननकृष्याद्यात्मकार समारम्भाः बन्धहेतत्वेन
॥७६ ॥