SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री प्राचाराङ्गवृत्तिः शीलाका. ॥ ७४॥ अध्ययनं १ उद्देशकः २ अप्पेगे भमुहमन्भे २ अप्पेगे णिडालम मे २ अप्पेगे सीसमन्भे २ अप्पेगे संपमारए अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्चेते आरभा अपरिणाता भवंति ॥ सू० १६ ॥ __ 'तं से अहियाए त से अबोहीए' तत् पृथिवीकायसमारम्भणं 'से' तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारंभमाणस्यागामिनि काले अहिताय भवति, तदेव चाबोधिलाभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिप्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भ पापात्मकं भावयति स एवं मन्यत इत्याह-'सेत'मित्यादि, 'सः' ज्ञातपृथिवीजीवत्वेन विदितपरमार्थः 'तं' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः 'आदानीयं ग्राह्य सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य, केन प्रत्ययेनेति दर्शयति-'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽनगाराणां वा समीपे, ततः 'इह' मनुष्यजन्मनि 'एकेषां प्रतिबुद्धतत्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तदर्शयितुमाह-'एसे'त्यादि, एष पृथ्वीशस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा 'नडूवलोदकं पादरोग' इति न्यायेनैष एव ग्रन्थः-अष्टप्रकारकर्मवन्धः, तथैष एव पथ्वीसमारम्भो मोहहेतुत्वान्मोहः-कर्मबन्धविशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैष एव मरणहेतुत्वात्मार:-आयुष्ककर्मक्षयलक्षणः, तथैप एव नरकहेतुत्वान्नरका-सीमन्तकादिभू भागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते, मार्यमाणजन्तुज्ञानावरोधित्वात् ज्ञानावरणीयं बध्नात्येवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह-'इच्चस्थमित्यादि, 'इत्येवमर्थम् ' आहारभूषणोपकरणार्थ ॥ ७४॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy