SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥ ७१ ॥ Sप्यातुरा विषय जीर्णदेहादिभिः सुखाप्तयेऽस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति - पीडयन्तीति सूत्रार्थः ॥ १४ ॥ ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहर्तुकाम आह संनि पाणा पुढो सिया लज्ज़माणा पुढो पास, अणगारा मोति एंगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं पुढचिकम्मसमारंभेणं पुढविसत्थं समारंभेमाणो अणे गरूवे पाणे विहिंसह । 'सन्ति' विद्यन्ते 'प्राणा:' सखा 'पृथग' पृथग्भावेन, अड्गुला संख्येय भागस्व देहावगाहनया पृथिव्याश्रिताः सिता वा सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह'लज्जमाणा पुढो पास' त्ति, लज्जा द्विविधा --लौकिकी लोकोत्तरा च तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम्- "लज्जा दया संजम बंभचेर 'मित्यादि, लज्जमाना:- संयमानुष्ठानपराः, यदिवा - पृथिवीकायसमारम्भरूपादसंयमानुष्ठानाल्लज्जमाना: 'पृथगि'ति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति । कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह- 'अणगारा' इत्यादि, न विद्यतेऽगारं गृहमेषामित्यनगारा -- यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तः प्रवदन्त इति, 'एके' शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा 'इति' एवमादि ॥ ७१ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy