SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ७२ ॥ प्रतिज्ञामात्र मनर्थक मारटन्ति, यथा-- कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याच्चर्मास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थं सङ्ग्रहं कारितवान् तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तम् १, एवमेतेऽपि शाक्यादयोऽनगारवादमुद्वहन्ति, न चानगारगुणेषु मनागपि प्रवर्त्तन्ते, च गृहस्थचर्यां मनागप्यतिलङ्घयन्तीति दर्शयति-- 'यद्' यस्माद् 'इम' मिति सर्वजनप्रत्यक्षं पृथिवीकायं 'विरूपरूपैः ' नानाप्रकारैः 'शस्त्रैः' हलकुद्दालखनित्रादिभिः पृथिव्याश्रयं कर्म्म- क्रियां समारंभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्म समारम्भेण पृथिवीशस्त्रं 'संमारंभमाणो' व्यापारयन् पृथिवीकायं नानाविधैः शस्त्रैर्व्यापादयन् 'अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपायैर्व्यापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाक्काय लक्षणां प्रवृत्ति दर्शयितुमाह तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपड़िघायहेउ स सयमेव पुढविसत्थं समारंभइ, अण्णेहिं वा पुढविसत्थं समारंभावेइ, अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ ॥ सू० १५ ॥ तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे 'भगवता ' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं - यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकायं समारभन्ते, त्रध्ययनं ९ ३६ शकः २ ॥ ७२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy