________________
श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ।। ७०॥
दयात्प्रशस्तज्ञानादिभावविकलः, कथं विकलः ?, अनन्तगुणपरिहाण्या, तथाहि-पश्चचतुस्त्रिब्येकेन्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च-"सर्वनिकृष्टो जीवस्य |
अध्ययनं १ दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः ॥ १॥ तस्मात्प्रभृति ज्ञान-उद्देशकः २ विवृद्धिदृष्टा जिनेन जीवानाम् । लब्धिनिमित्तः करणैः कायेन्द्रियवाङ्मनोहगभिः ॥ २" स च विषयकषायातः प्रशस्तज्ञानघूनः किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदि वा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत् , किमित्येवम् ?, यतः 'अवियाणए'त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह-'अस्मिन्' पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रागीते वा 'व्यथ भयचलनयो रितिकृत्वा व्यथितं भीतमिति, 'तत्थ तत्थेति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग विभिन्नेषु कार्येषूत्पन्नेषु ‘पश्येति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बहादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन्' पृथिवीकाये विषयभृते सामर्थ्यात् पृथिवीकार्य 'परितापयन्ति' परि-समन्तातापयन्ति--पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा--लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातॊऽपरस्तु कायपरिजीर्णः 'कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वे
॥ ७० ॥ १ कश्चित्तु अपरो दुःसम्बोधः नास्तीदं प्र०।