SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृत्वाऽभिहितं, तस्य स्वयमेवोपात्तत्वेन तद्वयाख्यानस्य न्याय्यत्वात् , तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे'त्यादि । अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थमाह केई सयं वहंति केई अन्नेहिं उ वहाविंती। केई अणमन्नंती पुढविकायं वहेमाणा ॥१०॥ स्पष्टा, तदधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाहजो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए। अनियाए अनियाए दिस्से य तहा अदिस्से य॥१०२॥ ___ यः पृथ्वीकार्य 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारमते' व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाइ'त्ति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून समारमते तदारम्भवांश्च 'दृश्यान्' दर्दुरादीन् 'अदृश्यान्' पनकादीन् । 'समारभते' व्यापादयतीत्यर्थः॥ एतदेव स्पष्टतरमाह पुढविं समारभंता हणंति तन्निसिए य बहुजीवे । सुहमे य बायरे य पज्जत्ते य अपज्जत्ते ॥ १०३॥ स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाहएयं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं । तिविहेण सव्वकालं मणेण वायाए काएणं ॥ १०४॥ __'एवमि'त्युक्तप्राकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवी ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy