________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥६६॥
प्रमाणं सचित्तपथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात् , ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्वथापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति । वधवारमाह
अध्ययनं १ पवयंति य अणगारा ण य तेहि गुणेहि जेहिं अणगारा। पुढचं विहिंसमाणा न हुते वायाहि अणगारा॥९॥ उद्देशकः २
इह ह्य के कुतीथिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रव्रजिताः, न च 'तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्तन्ते, येवनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तदर्शयति--यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम् , अन्यथापि निर्लेपनिर्गन्ध कतु शक्यम् , अतश्च यतिगुणकलापशून्या न वाङ्माण युक्तिनिरपेक्षेणानगारत्वं विभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथान साधर्म्यदृष्टान्तः स चायं प्रयोगः--कुतीथिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यातगुणेषु न प्रवर्तन्ते, गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भ निगमनमाहअणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निद्दोसत्ति य मइला विरइदुगंछाइ महलतरा ॥१०॥
'अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निगुणा यतोऽत: 'अगारिसमा' गृहस्थतुन्या भवन्ति, अभ्युच्चयमाह-सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति ।।
I16६॥