________________
द्वार-शस्यतेऽनेनेति शस्त्रं, तच द्विधा-द्रव्यंशस्त्रं भावशस्त्रं च, द्रव्यशस्वमपि समासविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाहहलकुलिय-विसकुद्दालालित्तय-मिगसिंग-कट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्थं ॥५॥
तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युच्चारप्रश्रवणादिकमेतत् 'समासतः संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाहकिंची सकायसत्थं किंचो परकाय तदुभयं किंचि । एयं तु दव्वसत्थ भावे अ असंजमो सत्थं ॥६६॥
किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किश्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच्च सर्वमपि द्रव्यशस्त्रं, भावे पुनः 'असंयमः' दुष्प्रयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह
पायच्छेयण भेयण जंघोरु तहेव अंगुवंगे। जह हुति नरा दुहिया पुढविक्काए तहा जाण ॥ ७ ॥ ___ यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नराः दुःखिताः, तथा पृथिवीकायेऽपि वेदना जानीहि ॥ यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह
नत्थि य सिअंगुवंगा तयाणरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिं चऽतिवायए पाणे ॥८॥ _पूर्वाद्धं गतार्थ, केषाश्चित्पृथिवीकायिकानां तदारांम्भणः पुरुषा वेदनामुदीरयन्ति, केषाश्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलक
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀