________________
अध्यय१
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
उद्देशकः २
॥६४॥
णता अप्यसंख्येयलोकाकाशप्रदेशपरिमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह
बायरपुढविक्काइयपज्जत्तो अन्नमनमोगाढो । सेसा ओगाहंते सुहमा पुण सबलोगंमि ॥ ९१॥ बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाहचंकमणे यहाणे निसीयण तुयट्टणे य कयकरण । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥१२॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडाणंपि य करणे उवभोगविही मणस्साण ॥१३॥ ___ चक्रमणो स्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपलेपनाहरणभूषणक्रयविक्रयकृषीकरणमण्डकपट्टनादिषपभोगविधिर्मनुष्याणां पथिवीकायेन भवतीति ॥ यद्यवं ततः किमित्यत आह
एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे | सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥४॥ एमिश्वङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सातं' सुख मात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति 'परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणं तदुदीरयन्ति-उत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ॥ अधुना शस्त्र
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ ६४॥