SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दर्शयितुमाहपत्थेण व कुडवेण व जह कोई मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया असंखिजा।८७॥ यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति । पुनरपि प्रकारान्तरेण परिमाणमाहलोगागासपएसे इविक्कं निक्विवे पुढविजीवं । एवं मविजमाणा हवंति लोआ असंस्विजा ॥८८॥ स्पष्टा ॥ साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मवादरत्वमाहनिउणो उ होइ कालो तत्तो निउणयरयं हवह खित्तं । अंगुलसे दीमित्ते ओसप्पिणीओ असंखिजा८९॥ 'निपुणः सूक्ष्मः कालः' समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽगुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेAणासंख्येया उत्सपिण्यवसपिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् ॥ प्रस्तुतं कालतः परिमाणं दर्शयितुमाह अणसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कायहिइया चउरो लोया असंखिज्जा ॥१०॥ तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्कामन्ति च, एकस्मिन् समये किया निष्क्रमः प्रवेशश्च १-२, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परि ॥३३॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy