SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ६२ ॥ स्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टतु 'पुष्पफलप्रदत्वेन स्वष्टं साधयिष्यते च ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् । ननु चाश्मलतादेः कठिन पुद् गलात्मिकायाः कथं चेतनत्वमित्यत आह अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिट्ठ । एवं जीवाणुगयं पुढविसरीरं खरं होइ ॥ ८५ ॥ यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति ॥ साम्प्रतं लक्षणद्वारानन्तरं परि माणद्वारमाह जे बाय पत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निषि रासी वीसु ́ लोया असंखिजा ॥ ८६ ॥ तत्र पृथिवीकायिका चतुर्द्धा तद्यथा - बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च तत्र ये बादराः पर्याप्तास्ते संवर्त्तितलोकप्रत्तरा संख्येय भागमात्र वर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथा निर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम् – " "सव्वस्थोवा बादरपुढविकाइया पज्जन्ता, बादरपुढविकाइया अपज्जन्ता असंखेजगुणा सुहुमपुढविकाइया अपज्जन्ता असंखेज्जगुणा सुहमपुढविकाइया पज्जन्ता असंखेज्जगुणा" ॥ प्रकारान्तरेणापि राशित्रयंस्य परिमाणं १ सस्तोका बादरपृथ्वीका यिकाः पर्याप्ताः बादर पृथ्वीकायिका अपर्याप्ता असंख्येयगुणाः सूक्ष्म पृथ्वी कायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्म पृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः । अध्ययनं १ ३६ शकः २ ॥ ६२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy