SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥५६॥ Raच भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां; यत एकपर्याप्त काश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तका पर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु 'आहारसरीरिन्दियऊसासवभोमणोऽहिनिव्वत्ती। होति जतो दलियाओ करणं पइ सा उ पबत्ती ॥१॥ जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणति नयति स तादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्वासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तमुहर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्धयन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसह नाणत्तं पुढवीकाए तहा जाण ॥८॥ यथा वनस्पतेवृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छावृन्ताकीसल्लकीकप्पास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लता:-पुन्नागाशोकलताद्याः, वन्ल्या-त्रपुषीवालुङ्कीकोशातक्याद्याः वलयानि-केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह ओसहि तण सेवाले पणगविहाणे य कंद मूले य। जह दीसह नाणत्तं पुहवीकाए तहा जाण ॥ ८ ॥ १ आहारः शरीरमिन्द्रियाणि उच्छवासो वचः मनः अभिनिवत्तिः भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥ १॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ५ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy