________________
श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ५८॥
प्रध्ययनं १ उद्देशकः २
पृथिव्या एवं (सं)भावनीयमिति । उक्तं च प्रज्ञापनायाम्-"'तत्थ णं जे ते पजतगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिपमुहसयसहस्साई पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, से तं खरबायरपुढविकाझ्या" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भृयो नियुक्तिकृत स्पष्टतरमाह
वण्णमि य इकिक्के गंधंमि रसंमि तह य फासंमि । नाणती कायव्वा विहाणए होइ इकिक्कं ॥ ७८॥ - वर्णादिके एकैकस्मिम् 'विधाने' भेदे सहस्रायशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीमेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्भसरकेसरकर्बु रादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो मेदा वाच्याः॥ पुनरपि पर्याप्तकादिमेदाढ़ेदमाह
जे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता । मुटुमावि हुंति दुविहा पज्जत्ता चेव अपज्जत्ता॥७९॥ यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र १ तत्र ये ते पर्याप्तकाः ऐतेषां वर्णा देशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रापशो विधानानि संख्येवानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति, तद् यत्रकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः