________________
॥ ५७॥
पुढवी य सकरा वालगा य उवले सिला य लोणसे ।अय तंब तउअ सोसग रुप्प सुवण्णे य वइरे य ॥७३॥ हरियाले हिंगुलए मणोसिला सासनंजण पवाले। अम्भपडलब्भवालुअ पायरकाए मणिविहाणा ॥ ७४ ॥ गोमेज्जए य रुयगे अंको फलिहे य. लोहियक्खे य। 'मरगय मसारगल्ले भुयमोयग इदनीले य ॥७॥ चंदप्पह वेरुलिए जलकते चेव सूरकन्ते य । एए खरपुढवीए नाम छत्तीसयं होइ ॥ ७६॥ ___ अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः ॥ एवं सूक्ष्मवादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाहवण्णरसगंधफासे जोणिप्पमुहा भवंति संखजा। गाइ सहस्साईति विहाणंमि इक्किक्के ॥ ७७॥
तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदकर्कशादयः अष्टौ, तत्र वर्गादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्येया मेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् १ चंदण गेरुय हंसग भुयमोय मसारंगल य प्र.
॥ ५७॥